- republic-day-wallpapers
- republic-day-wallpapers
- India is my country and all Indians are my brothers and sisters.
- I love my country and I am proud of its rich and varied heritage.
- I shall always strive to be worthy of it.
- I shall give respect to my parents, teachers and all elders and treat everyone with courtesy.
- To my country and my people, I pledge my devotion.
- In their well being and prosperity alone, lies my happiness.
Sanskrit Version
भारतो मम देशो अयं भारतीयाश्च बान्धवाः । परानुरक्तिरस्मिन् मे देशे अस्ति मम सर्वदा ॥१॥
समृद्धाः विविधाश्चास्य या देशस्य परम्पराः । सन्ति ताः प्रति मे नित्यम् अभिमानोन्नतम् शिरः ॥२॥
प्रयतिष्ये सदा चाहम् आसादयितुम् अर्हताम् । येन तासाम् भविष्यामि श्रद्धायुक्तः पदानुगः ॥३॥
संमानयेयं पितरौ वयोज्येष्ठान् गुरुंस्तथा । सौजन्येनैव वर्तेय तथा सर्वैरहं सदा ॥४॥
स्वकियेन हि देशेन स्वदेशीयैश्च बान्धवैः । एकान्तनिष्ठं आचारं प्रतिजाने हि सर्वदा ॥५॥
एतेषामेव कल्याणे समुत्कर्षे तथैव च | नूनं विनिहितं सर्वं सौख्यं आत्यन्तिकं मम ||६||
|| वन्दे मातरम् ||






















